अयोग्य: पुत्र: !

गुजरातीमूलम् – नीलम दोशी

अनुवाद – नीतिन महेता

सर्वे मातपितर: इव भद्रक: अपि स्वप्नम् अपश्यत् यत् ममं पुत्र: पलाश: अध्ययनांतरं धनं सम्पादयेत्, सुखेन जीवेत् इति ! सौभाग्यात् पलाशेन सुयोग्य: उध्योग : अपि प्राप्त: ! पलाशस्य पत्नी वन्या सुन्दरी संस्कारवती च ! विवाहानंतरम् अचिरात् एव पलाशेन स्थानपरिवर्तनादेश: प्राप्त:! अत: स: पल्या सह नगरे अवसत् !

उध्योगात् निवृत: भद्रक: प्रतिमासं निवृतिवेतनं प्राप्नोति स्म ! किंतु व्यये अनिग्रहकारणात् तत् निवृतिवेतनं तस्मै पर्याप्तं न भवति स्म ! अत: पुत्र: प्रतिमासं तस्मै धनं प्रेषयति स्म् ! तस्मात् भद्रकस्य जीवनं निश्विंततया प्रचलति स्म् ! गृहे मित्रमिलनं, भजनम् इत्यादिकं बहुधा प्रचलति स्म्,व्ययचिंतां विना ! यदा विराम: प्राप्येत तदा पलाश: पल्या सह ग्रामम् आगच्छति स्म ! गृहे आनन्दमय: परिसर द्रश्यते स्म ! वन्या अपि दुग्धशर्करान्यायेन गृहे व्यवहर्ति स्म् !

गच्छता कालेन वन्यया पुत्री प्राप्ता ! पौत्री द्रष्टा भद्रक: तत्पत्नी च नितरां संतुष्टौ ! भदक: तु एतदवसरे अपि स्वभावनुगुणं महांतम एव व्ययम् अकरोत् ! प्रसूते: द्वित्राळां मासानाम् अनंतरम् पत्या पुत्र्या च सह वन्या नगरं गतवती ! इदानी कौटुम्बिकव्ययभाराश्धिक्य कारणात् पलाशस्य धनप्रेषळे अनियतता समागता ! एकस्मिन मासे तत: पत्रम् आगतं यत् उत्तरदायित्ववृध्धिकारळत: सध्य: काले धनं प्रेषयितुं न शक्यते इति 1 एतस्य पठनात् भद्रक: नितरां क्रुध्धं ! पुत्रम् अयोग्यं मत्वा तेन सह व्यवहारं स्थगितं क्रतवान स: ! दूरवाण्या सम्भाषणम् अपि तेन निराक्रतम् !

अत्रांतरे भद्रकस्य पुत्र्या: विवाह: निश्विंत: ! ‘ न कापि चिंता ! ऋणं प्राप्य पुत्र्या: विवाह: निर्वतयिष्यामि अहम् 1 पुत्रं तु धनं न याचिष्यामि इति सर्वेषां पुरत: सदर्पम् अवदत् भद्रक: 1 मित्राणां बन्धूनां च पुरत: तेन ऋणप्रस्ताव: उपस्थित: किंतु ते स्रवे कमपि व्याजं वदंत: निराकृति दर्शितवंत: 1 पुत्र्या: विवाहनिर्वर्तनाय धनं कथं प्राप्येत् इति चिंतां प्राप्तवान भद्रक: ! अत्रांतरे पलाशस्य सुह्रदौ आगत्य उक्तवंतौ,

“ आर्य ! अलं चिंतया 1 आवयो : पितृतुल्य: अस्ति भवान ! पलाशस्य भगिनि आवयो: अपि भगिनि एव ! ” इति ! तौ एव स्वयं धनव्यव्स्थां परिकल्पितवंतौ ! विवाहसंबंधेषु सर्वेषु अपि कार्येषु सोत्साहं प्रवृतौ जातौ !

तयो: व्यवहारं द्रष्टा भद्रक: गद्गदकंठ: जात: “ भवतो: धनं यथाशक्ति शीघ्रं प्रत्यर्प्यिष्यामि “ इति आद्रर्नयन: स: अवदत् 1 ’ऋणप्रत्यर्पणविषये कापि चिंता न कार्या ‘इति तौ उक्तवंतौ !

विवाहदिनम् आसन्नम् ! पलाश: सपत्नीक: ग्रहे उपस्थित: जात: ! भद्रक: पुत्रे उपेक्षां प्रदर्शयन सर्वविधं समालोचनं करोति स्म तस्य सुह्रदया सह एव ! तथापि पलाश: शांततया एव स्मेरमुख: सन व्यवहरति स्म ! वन्या अपि सर्व कार्येषु यथायोग्यं प्रवृता जाता !

वरयात्राया: स्वागताय कीद्रशौ व्यवस्था स्यात् इत्वत्र गृहे चर्चा प्रवृता ! भद्रक: तदवसरे अपि पलाशस्य सुह्दया सहैव चर्चाम् अकरोत् ,न तु पलाशेन सह ! पलशविषयक: क्रोध: भद्रकस्य मुखे व्यवहारे वचने च स्फुटतया द्रश्यते स्म ! तस्य क्रोधस्य उपशमनाय सुह्रदौ बहुधा प्रयत्नम् अकुरुताम् ! तथापि भद्रकस्य क्रोध: न उपशाम्य्ति !

अत्रांतरे पलाश: चर्चार्थ सुह्र्दौ बहि: आहूतवान ! एतत् लक्षितवान भद्रक: अचिंतयत् वत् एष: मद्विषये अयोग्यवचनानि तौ वदिश्यति इति ! अत: स: छन्न: भूत्वा तेषां चर्चाम् अश्रुणॉत !

पलाशस्य सुह्रदौ उक्तवंतो “ पलाश, आवां चिंतयतौ स्व: यत्भवत: पितरं वस्तुस्थितिं कथयाव इति ! भवत: विषये तस्य क्रोध: न आवाभ्यम सह्यते ! सर्व धनं भवता एव दत्तम् आवयो: द्वारा ! तथापि पिता तु करुध्यति भवते ! एतत् न युक्तम् ! ”

“ न वक्तव्यम इदानीं किमपि ! धनं मया दत्तम् इति यदि स: जानीयात् तर्हि स: धंस्वीकरणम् एव निराकुर्यात क्रुध्ध:सन ! तस्य अभिमांनस्य भंग: सर्वर्था न करणीय: इदानीम् !’

’ तथापि स्रवेषां पुरत: स: भवंतम् अयोग्यम् कथयति पौन: पुन्येन ! एतत उचितं खलु ? ‘

‘ तेन किमपि अनुचितं न कृतम् ! प्रतिमासं यत् धनं प्राप्यते स्म तस्य स्थगनं जातन इत्यत: स: मयि कुपित: किंचित ! तद्विषये चिंता न कार्या ! ‘
‘ स: अतिव्ययं क्रत्वा रिक्तहस्त: जात: ! अतिव्यय: तस्यैव खलु दोष :? तथापि भवता औदाएयेळ भगिन्या: समग्र: विवाहव्यय: उढ: ‘

’ तस्य व्यवहारे दोष: मा दर्श्यताम् ! बाल्यावस्थायां तेन मम अनेके प्रमादा: सोढा: ! किं तदीय: एक दोष : मया सोढुं न शक्यते ? अत: मया इदानी शानततया स्थातव्यम् ! गच्छता कालेन सर्व सम्यक भविष्यति ! ‘

छन्न: भूत्वा श्रुतवान भद्रक: “ अयोग्यस्य “ पुत्रस्य वास्तवं स्वरूपं खातवान 1 तस्य नेत्रे सजले जाते !

14 Comments

  1. 1

    સંસ્કૃત વાંચવાની મઝા આવી? નીલમબેન મુળ ગુજરાતી વાર્તાની લીંક પણ સાથે મુકશો.

  2. 2

    http://paramujas.wordpress.com/2008/11/13/ahsyt-dhufyt/

    thanks chiragbhai..

    and yes…this is the link of original story…

  3. 3
    Urmi Says:

    oh god aunty… આ તો “કાળા અક્ષર ભેંસ બરાબર” જેવું જ લાગ્યું… I feel very ashamed that beside some slokaas-prayers, I have totally lost the touch with sanskrit… I can hardly understand anything from here…!

  4. 4
    chetu Says:

    હાર્દિક અભિનંદન દીદી ! આ વાત અને આપ પણ અમારા માટે ગૌરવ છો …!

    સ્કુલ લાઈફ યાદ આવી ગઈ .. સંસ્કૃતનાં રૂપ ( વ્યાકરણ ) યાદ આવી ગયા ..

  5. 5
    jjkishor Says:

    अहो आश्चर्यम् ! अहो सुखम् !! साधु !

  6. 6
    pragnaju Says:

    अयोग्यस्य “ पुत्रस्य वास्तवं स्वरूपं…?पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि .
    मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते

    गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् .
    यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण
    कोशक्रिमिस्तन्तुभिरात्मदेहमावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् .
    स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः
    यथा तथा पुत्रकलत्रमित्रस्नेहानुबन्धैर्ग्रथितो गृहस्थः .
    कदापि वा तान्परिमुच्य गेहाद्गन्तुं न शक्तो म्रियते मुधैव
    कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे .
    मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः
    गृहस्पृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः .
    शीर्षे पतद्धूर्यशनिर्हि साक्षात्प्राणान्तहेतुः प्रबला धनाशा

    • 7

      અરે, પ્રજ્ઞાબહેન..વાહ..! આટલું સુન્દર સંસ્કૃત પણ જાણૉ છો જાણી ખૂબ ખૂબ આનંદ…અભિનંદન..અને આભાર..

  7. 8

    khubaj saras

    khub khub abhinandan nilam ben

  8. 9

    vachiyu to khali shlok ma j hatu…pan sambhadiyu che somaiya school ma har jan…ma thata prog..ma…
    aaje thodu vanchanu…pan bahu var lagi…
    khub khub abhinandan Nilam didi…

  9. 10
    Pinki Says:

    ખૂબ ખૂબ અભિનંદન……!!

    not understand too much, but really enjoy to read sanskrit.

  10. 11

    sanskritmaa vaatne mukavano prayatna, bahu j umada kaam karyu

  11. 12

    Fari vanchvu padashe hard laage chhe..pan vishay interesting chhe…

  12. 13
    wishandvote Says:

    Respected Nilamben,

    As I was teacher for Sanskrit in one of the famous school in Surat,Retired currently.

    I am felling really very happy after read this article in “Sanskrit” Online here.As our next generation are forgetting about it.

    Also Invite you to visit mine blogs on,Fitness Facts | Health Tips

    God Bless You for your blogging work..

  13. 14
    santswami Says:

    good
    I never think
    I will read sanskrit artical on this web
    congretulation


RSS Feed for this entry

Leave a Comment